सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Image शास्त्रीयलेखाः

साहित्यदर्पणम् विश्वनाथेन रचितः ग्रन्थः। पाण्डित्यपूर्णग्रन्थोऽयम् अलङ्कारस्य विषये वर्तते। सूत्रवृत्त्युदाहरणारुपेणा त्रिधा विभक्तः। अत्र च विद्यमानाः कारिकाः , वृत्तयः एतेनैव रचिताः। साहित्यदर्पणकारः कविराजो विश्वनाथः उत्कलप्रदेशे ब्राह्मणकुले जन्म लेभे। तस्य प्रपितामहो नारायणः, चण्डीदासः पितामहानुजः, चन्द्रशेखरश्च पिताऽऽसीत्।

श्री चन्द्रशेखरमहाकविचन्द्रसूनु
श्रीविश्वनाथकविराजकृतं प्रबन्धम्।
साहित्यदर्पणममुं सुधियो विलोक्य
साहित्यतत्त्वमखिलं सुखमेव वित्त ॥ (सा. दर्पण- १०-१००)

अलंकारसाहित्येतिहासेन्यतमो ग्रन्थः तावत् साहित्यदर्पणम् एकः एवास्ति। दशपरिच्छेदात्मकोऽयं ग्रन्थः। (अधिकवाचनाय »)



Image आधुनिकलेखः

Image

दौलतसिंहः भारतस्य प्रसिद्धः वैज्ञानिकः। १९६१ तमात् वर्षात् दशवर्षाणि यावत् सः विश्वविद्यालयानुदानायोगस्य अध्यक्षपदं व्यभूषयत्। १९६४ तमे वर्षे सः राष्ट्रियशिक्षायोगस्यापि अध्यक्षः आसीत्। प्रशासकीयसेवायै १९६२ तमे वर्षे सः पद्मभूषणं, १९७३ तमे वर्षे च पद्मविभूषणं प्राप्नोत्। १९०६ तमस्य वर्षस्य जुलाई-मासस्य सप्तमे (६/७/१९०६) दिनाङ्के राजस्थानराज्यस्य उदयपुरे दौलतसिंहस्य जन्म अभवत्। तस्मिन् काले उदयपुरं मेवाडराज्यस्य अङ्गभूतम् आसीत्। दौलतसिंहस्य पिता फतेहलाल कोठारी शिक्षकः आसीत्। तस्य ज्येष्ठः पुत्रः दौलतसिंहः। दौलतसिंहस्य अन्ये त्रयः भ्रातरः, एका भगिनी च आसन्। १९१८ तमे वर्षे अष्टात्रिंशत् (३८) वर्षीयः फतेहलाल-महोदयः दिवङ्गतः। तस्मिन् काले दौलतसिंहः द्वादशदेशीयः (१२) आसीत्। ज्येष्ठपुत्रे सति पितुः निधनोत्तरं गृहदायित्वं दौलतसिहंस्योपरि आपतितम्। दौलतसिंहस्य माता जैनमतानुयायिनी आसीत्। सा सर्वदा अन्येषां साहाय्यार्थं तत्परा भवति स्म। दौलतसिंहस्य जीवने तस्य मातुः प्रभावः प्रत्यक्षः आसीत्। (अधिकवाचनाय »)




Image वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना

​22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।

​* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्

​21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।

​* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्

​20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।

Image अद्यतनं सुभाषितम्

वयमिह परितुष्टा वल्कलैस्त्वं दुकुलैः
सम इह परितोषो निर्विशेषो विशेषः।
स तु भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोर्थवान् को दरिद्रः ॥

वैराग्यशतकम् – ५३

कश्चन संन्यासी राजानम् उद्दिश्य वदति – ”आश्रमे वसन्तः वयं वल्कलवस्त्रैः एव सन्तुष्टाः स्मः। भवान् कौशेयवस्त्राणि धरन् सन्तोषम् अनुभवति। भवतः मम च सन्तोषः समानः एव। तत्र न कोपि भेदः। यस्य तृष्णा अधिका अस्ति सः एव दरिद्रः। मनः यदि तृप्तं स्यात् तर्हि कः धनिकः ? कः दरिद्रः ?


Image सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्